kartik ojha budh kavcham şarkı sözleri

अथ बुध कवचम् अथ फलश्रुतिः अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य, कश्यप ऋषिः, अनुष्टुप् छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः | बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः | पीताम्बरधरः पातु पीतमाल्यानुलेपनः ‖ 1 ‖ कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा | नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ‖ 2 ‖ घाणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम | कण्ठं पातु विधोः पुत्रो भुजौ पुस्तकभूषणः ‖ 3 ‖ वक्षः पातु वराङ्गश्च हृदयं रोहिणीसुतः | नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ‖ 4 ‖ जानुनी रौहिणेयश्च पातु जङ्घ्??उखिलप्रदः | पादौ मे बोधनः पातु पातु सौम्यो??उखिलं वपुः ‖ 5 ‖ एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् | सर्वरोगप्रशमनं सर्वदुःखनिवारणम् ‖ 6 ‖ आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनम् | यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ‖ 7 ‖ ‖ इति श्रीब्रह्मवैवर्तपुराणे बुध कवच सम्पूर्णम् ‖
Sanatçı: kartik ojha
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 1:21
Toplam: kayıtlı şarkı sözü
kartik ojha hakkında bilgi girilmemiş.

Fotoğrafı