kartik ojha rin mochan mangal stotram şarkı sözleri

मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः। स्थिरासनो महाकायः सर्वकर्मावरोधकः॥ लोहितो लोहिताङ्गश्च सामगानां कृपाकरः। धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः॥ अङ्गारको यमश्चैव सर्वरोगापहारकः। वृष्टे कर्ताऽपहर्ता च सर्वकामफलप्रदः॥ एतानि कुजनामानि नित्यं यः श्रद्धया पठेत्। ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात्॥ धरणीगर्भसम्भूतं विद्युत्कान्ति-समप्रभम्। कुमारं शक्तिहरतं च मङ्गलं प्रणमाम्यहम्॥ स्तोत्रमङ्गारकस्यैतत् पठनीयं सदा नृभिः। न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित्॥ अङ्गारक! महाभान! भगवन्! भक्तवत्सल! त्वां नमामि ममाशेषमृणमाशु विनाशय॥ ऋणरोगादि-दारिद्रयं ये चाऽन्ये ह्यपमृत्यवः। भय-क्लेश-मनस्तापा नश्यन्तु मम सर्वदा॥ अतिवक्र! दुराराध्य! भोगमुक्तजितात्मनः। तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात्॥ विरिञ्च-श्क्र-विष्णूनां मनुष्याणां तु का कथा। तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः॥ पुत्रान् देहि धनं देहि त्वामस्मि शरणं गताः। ऋणदारिद्रयदुःखेन शत्रूणां च भयात्ततः॥ एभिर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम्। महतीं श्रियमाप्नोति ह्यपरो धनदो युवा॥ ॥ इति श्री ऋणमोचक मङ्गलस्तोत्रम् सम्पूर्णम्॥
Sanatçı: kartik ojha
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 1:55
Toplam: kayıtlı şarkı sözü
kartik ojha hakkında bilgi girilmemiş.

Fotoğrafı