pandit ganeshwar mishra bilvashtakam (shiv stotra) şarkı sözleri
अथ बिल्वाष्टकं
त्रिदलं त्रिगुणाकरं त्रिनेत्रं च त्रियायुधं त्रिजन्मपापसंहारं ऐकबिल्वं शिवार्पणं १
त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिदैः कोमलैः शुभैः शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणं २
अखंड बिल्वपत्रेण पूजिते नंदिकेश्वरे शुद्ध्यंति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणं ३
शालिग्राम शिलामैकां विप्राणां जातु चार्पयेत् सोमयज्ञ महापुण्यं एकबिल्वं शिवार्पणं ४
दंतिकोटि सहस्राणि वाजपेय शतानि च कोटिकन्या महादानं एकबिल्वं शिवार्पणं ५
लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियं बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणं ६
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनं अघोरपापसंहारं ऐकबिल्वं शिवार्पणं ७
काशीक्षेत्रनिवासं च कालभैरवदर्शनं प्रयागमाधवं दृष्ट्वा ह्येकबिल्वं शिवार्पणं ८
मूलतौ ब्रह्मरूपाय मध्यतो विष्णुरूपिणे अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणं ९
बिल्वाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ सर्वपाप विनिर्मुक्तः शिवलोकमवाप्नुयात् १०
हरि ॐ