pandit ganeshwar mishra sankat nashan ganesh stotra şarkı sözleri
श्री गणेशायनमः
नारद उवाच -
प्रणम्यं शिरसा देव गौरीपुत्रं विनायकम
भक्तावासं: स्मरैनित्यंमायु:कामार्थसिद्धये 1
प्रथमं वक्रतुंडंच एकदंतं द्वितीयकम
तृतीयं कृष्णं पिङा्क्षं गजवक्त्रं चतुर्थकम 2
लम्बोदरं पंचमं च षष्ठं विकटमेव च
सप्तमं विघ्नराजेन्द्रं धूम्रवर्ण तथाष्टकम् 3
नवमं भालचन्द्रं च दशमं तु विनायकम
एकादशं गणपतिं द्वादशं तु गजाननम 4
द्वादशैतानि नामानि त्रिसंध्य य: पठेन्नर:
न च विघ्नभयं तस्य सर्वासिद्धिकरं प्रभो 5
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् 6
जपेद्वगणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत्
संवत्सरेण सिद्धिं च लभते नात्र संशय: 7
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वां य: समर्पयेत
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: 8 इति श्रीनारदपुराणे संकष्टनाशनं गणेशस्तोत्रं सम्पूर्णम्"